वांछित मन्त्र चुनें

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑: । नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥

अंग्रेज़ी लिप्यंतरण

drapsam apaśyaṁ viṣuṇe carantam upahvare nadyo aṁśumatyāḥ | nabho na kṛṣṇam avatasthivāṁsam iṣyāmi vo vṛṣaṇo yudhyatājau ||

पद पाठ

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ । नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥ ८.९६.१४

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:14 | अष्टक:6» अध्याय:6» वर्ग:34» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:14